अमरकोशः


श्लोकः

गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गरुत्मत् गरुत्मान् पुंलिङ्गः गरुतः पक्षाः सन्त्यस्य । मतुप् तद्धितः तकारान्तः
2 गरुड गरुडः पुंलिङ्गः गरुद्भिर्डयते । कृत् अकारान्तः
3 तार्क्ष्य तार्क्ष्यः पुंलिङ्गः तार्क्ष्यस्य कश्यपस्यापत्यम् । अण् तद्धितः अकारान्तः
4 वैनतेय वैनतेयः पुंलिङ्गः विनताया अपत्यम् । ढक् तद्धितः अकारान्तः
5 खगेश्वर खगेश्वरः पुंलिङ्गः खगानामीश्वरः । तत्पुरुषः समासः अकारान्तः
6 नागान्तक नागान्तकः पुंलिङ्गः नागानामन्तकः । तत्पुरुषः समासः अकारान्तः
7 विष्णुरथ विष्णुरथः पुंलिङ्गः विष्णोः रथ इव । तत्पुरुषः समासः अकारान्तः
8 सुपर्ण सुपर्णः पुंलिङ्गः शोभने पर्णे पक्षावस्य । तत्पुरुषः समासः अकारान्तः
9 पन्नगाशन पन्नगाशनः पुंलिङ्गः पन्नगानश्नाति । तत्पुरुषः समासः अकारान्तः