अमरकोशः


श्लोकः

संबरारिर्मनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संबरारि संबरारिः पुंलिङ्गः संबरस्यारिः । तत्पुरुषः समासः इकारान्तः
2 मनसिज मनसिजः पुंलिङ्गः शृङ्गाररूपेण मनसि जायते स्म । तत्पुरुषः समासः अकारान्तः
3 कुसुमेषु कुसुमेषुः पुंलिङ्गः कुसुमानीषवो यस्या । बहुव्रीहिः समासः उकारान्तः
4 अनन्यज अनन्यजः पुंलिङ्गः नास्त्यन्यद्यस्मादनन्यो विष्णुः । ततो जातः । तत्पुरुषः समासः अकारान्तः
5 पुष्पधन्वन् पुष्पधन्वा पुंलिङ्गः पुष्पं धनुरस्य । बहुव्रीहिः समासः नकारान्तः
6 रतिपति रतिपतिः पुंलिङ्गः रतेः पतिः। तत्पुरुषः समासः इकारान्तः
7 मकरध्वज मकरध्वजः पुंलिङ्गः मकरो ध्वजोऽस्य । बहुव्रीहिः समासः अकारान्तः
8 आत्मभू आत्मभूः पुंलिङ्गः आत्मना भवति । तत्पुरुषः समासः ऊकारान्तः