अमरकोशः


श्लोकः

स शाक्यसिंह: सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शाक्यसिंह शाक्यसिंहः पुंलिङ्गः शाक्यः सिंह इव । तत्पुरुषः समासः अकारान्तः
2 सर्वार्थसिद्ध सर्वार्थसिद्धः पुंलिङ्गः सर्वार्थेषु सिद्धो निष्पन्नः । तत्पुरुषः समासः अकारान्तः
3 शौद्धोदनि शौद्धोदनिः पुंलिङ्गः शुद्ध ओदनोऽस्येति । इञ् तद्धितः इकारान्तः
4 गौतम गौतमः पुंलिङ्गः गोतमस्यायं शिष्यः । अण् तद्धितः अकारान्तः
5 अर्कबन्धु अर्कबन्धुः पुंलिङ्गः अर्कस्य बन्धुः । तत्पुरुषः समासः उकारान्तः
6 मायादेवीसुत मायादेवीसुतः पुंलिङ्गः माया चासौ देवी च । तस्याः सुतः । तत्पुरुषः समासः अकारान्तः