अमरकोशः


श्लोकः

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दर्वीकर दर्वीकरः पुंलिङ्गः दर्व्याकारः फण एव करो यस्य प्रहारसाधनत्वात् । टः कृत् अकारान्तः
2 दीर्घपृष्ठ दीर्घपृष्ठः पुंलिङ्गः दीर्घं पृष्ठमस्य । अकारान्तः
3 दन्दशूक दन्दशूकः पुंलिङ्गः गर्हितं दशति । यङ् कृत् अकारान्तः
4 विलेशय विलेशयः पुंलिङ्गः बिले शेते । अच् कृत् अकारान्तः
5 उरग उरगः पुंलिङ्गः उरसा गच्छति । डः कृत् अकारान्तः
6 पन्नग पन्नगः पुंलिङ्गः पन्नं पतितं यथा तथा गच्छति । डः कृत् अकारान्तः
7 भोगिन् भोगी पुंलिङ्गः भोग: फणो वक्रगतिर्वास्यास्ति । इनिः तद्धितः नकारान्तः
8 जिह्मग जिह्मगः पुंलिङ्गः जिह्मं कुटिलं गच्छति । ङः कृत् अकारान्तः
9 पवनाशन पवनाशनः पुंलिङ्गः पवनोऽशनं यस्य । बहुव्रीहिः समासः अकारान्तः