अमरकोशः


श्लोकः

वैरं विरोधो विद्वेष: मन्युशोकौ तु शुक् स्त्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैर वैरम् नपुंसकलिङ्गः वीरस्य कर्म । अण् तद्धितः अकारान्तः
2 विरोध विरोधः पुंलिङ्गः विरोधनम् । घञ् कृत् अकारान्तः
3 विद्वेष विद्वेषः पुंलिङ्गः विद्वेषणम् । घञ् कृत् अकारान्तः
4 मन्यु मन्युः पुंलिङ्गः मन्विति । युः उणादिः उकारान्तः
5 शोक शोकः पुंलिङ्गः घञ् कृत् अकारान्तः
6 शुच् शुक् स्त्रीलिङ्गः क्विप् कृत् चकारान्तः
7 पश्चात्ताप पश्चात्तापः पुंलिङ्गः पश्चात्तपनम् । घञ् कृत् अकारान्तः
8 अनुताप अनुतापः पुंलिङ्गः अनुतपनम् । घञ् कृत् अकारान्तः
9 विप्रतीसार विप्रतीसारः पुंलिङ्गः वितिप्रसरणम् । घञ् कृत् अकारान्तः