अमरकोशः


श्लोकः

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ताण्डव ताण्डवम् पुंलिङ्गः, नपुंसकलिङ्गः तण्डुना प्रोक्तं ताण्डवम् । अण् तद्धितः अकारान्तः
2 नटन नटनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 नाट्य नाट्यम् नपुंसकलिङ्गः नटस्य कर्म । ष्यञ् तद्धितः अकारान्तः
4 लास्य लास्यम् नपुंसकलिङ्गः ण्यत् कृत् अकारान्तः
5 नृत्य नृत्यम् नपुंसकलिङ्गः क्यप् कृत् अकारान्तः
6 नर्तन नर्तनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 तौर्यत्रिक तौर्यत्रिकम् नपुंसकलिङ्गः नृत्यगीतवाद्यं तौर्यत्रिकम् । ण्यत् कृत् अकारान्तः
8 नाट्य नाट्यम् नपुंसकलिङ्गः नटस्येदम् । ञ्यः तद्धितः अकारान्तः