अमरकोशः


श्लोकः

अभिशाप: प्रणादस्तु शब्दः स्यादनुरागजः । यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिशाप अभिशापः पुंलिङ्गः अभिशपनम् । घञ् कृत् अकारान्तः
2 प्रणाद प्रणादः पुंलिङ्गः प्रणदनम् । घञ् कृत् अकारान्तः
3 यशस् यशः नपुंसकलिङ्गः अश्नुते व्याप्नोति । असुन् उणादिः सकारान्तः
4 कीर्ति कीर्तिः स्त्रीलिङ्गः कीर्थ्यते । क्तिन् कृत् इकारान्तः
5 समज्ञा समज्ञा स्त्रीलिङ्गः समैः सर्वैर्ज्ञायते । कः कृत् आकारान्तः
6 स्तव स्तवः पुंलिङ्गः स्तूयतेऽनेन । अप् कृत् अकारान्तः
7 स्तोत्र स्तोत्रम् नपुंसकलिङ्गः ष्ट्र्न् कृत् अकारान्तः
8 स्तुति स्तुतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
9 नुति नुतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः