अमरकोशः


श्लोकः

रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका । अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रुशती रुशती पुंलिङ्गः, स्त्रीलिङ्गः वाग्भेदा इति । ईकारान्तः
2 कल्या कल्या स्त्रीलिङ्गः कलासु साधुः । यत् तद्धित आकारान्तः
3 सान्त्व सान्त्वम् नपुंसकलिङ्गः सान्त्वयति । अच् कॄदन्तः अकारान्तः
4 संगत संगतम् नपुंसकलिङ्गः संगच्छते स्म । क्तः कॄदन्तः अकारान्तः
5 हृदयङ्गम हृदयङ्गमम् नपुंसकलिङ्गः हदयं गच्छति । खच् कृत् अकारान्तः