अमरकोशः


श्लोकः

अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनुलाप अनुलापः पुंलिङ्गः प्रलपनम् । घञ् कृत् अकारान्तः
2 मुहुर्भाषा मुहुर्भाषा स्त्रीलिङ्गः मुहुः पुनःपुनर्भाषणम् । घञ् कृत् आकारान्तः
3 विलाप विलापः पुंलिङ्गः विलपनम् । घञ् कॄदन्तः अकारान्तः
4 परिदेवन परिदेवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 विप्रलाप विप्रलापः पुंलिङ्गः विरुद्धः प्रलापः । अकारान्तः
6 विरोधोक्ति विरोधोक्तिः स्त्रीलिङ्गः विरोधस्य उक्ति: ॥ षष्टितत्पुरुषः कृत् इकारान्तः
7 संलाप संलापः पुंलिङ्गः संलपनम् । घञ् कृत् अकारान्तः