अमरकोशः


श्लोकः

मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्राशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मतल्लिका मतल्लिका स्त्रीलिङ्गः मतं मतिमलति । तत्पुरुषः समासः आकारान्तः
2 मचर्चिका मचर्चिका स्त्रीलिङ्गः मं शम्भुं चर्चति । तत्पुरुषः समासः आकारान्तः
3 प्रकाण्ड प्रकाण्डम् पुंलिङ्गः, नपुंसकलिङ्गः प्रकृष्टं काण्डमवसरो, रसो वास्य । तत्पुरुषः समासः अकारान्तः
4 उध्द उद्धः पुंलिङ्गः अप् कृत् अकारान्तः
5 तल्लज तल्लजः पुंलिङ्गः तद्वल्लजः तल्लज: । अच् कृत् अकारान्तः
6 अय अयः पुंलिङ्गः एत्यनेन सुखम् । कृत् अकारान्तः