अमरकोशः


श्लोकः

सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः । एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सोपप्लव सोपप्लवः पुंलिङ्गः सहोपप्लवेन । तत्पुरुषः समासः अकारान्तः
2 उपरक्त उपरक्तः पुंलिङ्गः उपरज्यते स्म । क्त कृत् अकारान्तः
3 अग्न्युत्पात अग्न्युत्पातः पुंलिङ्गः अग्नेरुत्पतनम् उत्पातो वैकृतम् । तत्पुरुषः समासः अकारान्तः
4 उपाहित उपाहितः पुंलिङ्गः उप आसन्नम् आहितं फलं यस्य । बहुव्रीहिः समासः अकारान्तः
5 पुष्पवत् पुष्पवत् पुंलिङ्गः पुष्पो विकासः प्रकाशश्च । मतुप् तद्धितः तकारान्तः