प्रबालम्

सुधाव्याख्या

प्रबलति । ‘बल प्राणने' (भ्वा० प० से०) । ‘ज्वलिति-' (३.१.१४०) इति णः । ‘प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे’ इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


बलँ प्राणने
बल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + बल् + ण - ज्वलितिकसन्तेभ्यो णः 3.1.140
प्र + बल् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
प्र + बाल - अत उपधायाः 7.2.116
प्रबालम्
x000D