वीजाकृतम्

सुधाव्याख्या

वीति । वीजेन सह कृतं कृष्टम् । ‘कृञो द्वितीयतृतीयशम्बवीजात्कृषौ’ (५.४.५८) इति डाच् । अवीजं सवीजं सम्पन्नम् । वीजाकृतम् इति स्वामी । तन्न । ‘अभूततद्भावे इत्यस्याननुवृत्तेः ॥