मन्थानः

सुधाव्याख्या

मन्थति । बाहुलकादानच् । ताच्छील्ये चानश् (३.२.१२९) वा । मुकुटेन तु ‘परमे कित्' इत्यनुवृत्तौ ‘मन्तः' (उ० ४.११) इत्यनेनानः-इत्युक्तम् । तन्न । अनेनेनेर्विधानात् । आनस्याविधानात् । यदपि–मन्थेः शानचि मन्थानः, इति स्वामी–इत्युक्तम् । तदपि न । मन्थेः परस्मैपदित्वात् । आत्मनेपदिभ्यः शानचो विधानात् । मुक्प्रसङ्गाच्चानशपि न । आगमशास्त्रस्यानित्यत्वं वा बोध्यम् ॥