गौः

सुधाव्याख्या

गच्छति । ‘गमेर्डोः’ (उ० २.६७) । ‘गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च' इति विश्वमेदिन्यौ ॥