पादबन्धनम्

सुधाव्याख्या

गोमेति । गौश्च महिषी च, गोमहिष्यौ आदी यस्य । तत् । पादे बन्धनमस्य । ‘यादवं धनम्' इति पाठे तु गोमहिष्यादिकं धनम् । यदूनामिदम् । ‘तस्येदम्' (४.३.१२०) इत्यण् । ‘गवादि यादवं वित्तम्' इति वोपालितः ॥


प्रक्रिया

धातुः -


| पाद + ङि + बन्धन + सु – अनेकमन्यपदार्थे 2.2.24 | |

| पादबन्धन | - सुपो धातुप्रातिपदिकयोः 2.4.71 |

| पादबन्धनम् | |