हविः

सुधाव्याख्या

हूयते । ‘हु दानादौ’ (जु० प० अ०) । ‘अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' (उ० २.१०८) इतीसिः । ‘हविः सर्पिषि होतव्ये' इति हैमः ॥