द्रप्सम्

सुधाव्याख्या

द्रेति । तृप्यन्त्यनेन । 'तृप प्रीणने' (दि० प० अ०) । ‘अघ्न्यादयश्च' (उ० ४.११२) इति ‘त्रप्स्यम्’ इति निपातः इति मुकुटः । ‘द्रप्सम्' इति स्वामी पठति । दृप्यन्त्यनेन । ‘दृप हर्षादौ’ (दि० प० अ०) ‘अनुदात्तस्य च’ (६.१.५९) इत्यम् । बाहुलकात् सः ।-द्रप्सं द्राक् प्सानीयम्-इति सर्वानिन्दः । ‘द्रप्सं दध्यघनं तथा' इति नाममाला ॥ घनात् कठिनादन्यत् ॥ केचित्तु ‘द्रप्स' स्थाने सरं पठन्ति । सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । ‘वाणद्रप्सौ सरौ' इति दुर्गात् ।–उपरि प्लवमानम् इति व्याचक्षते ॥


प्रक्रिया

धातुः -


x000D