पयः

सुधाव्याख्या

पीयते । 'पीङ् पाने’ (भ्वा० आ० अ०) । पयते वा । ‘पय गतौ' (भ्वा० आ० से०) । असुन् (उ० ४.१.८९) । ‘पयः क्षीरे च नीरे च' इति हैमः ॥