क्षीरम्

सुधाव्याख्या

क्षयणम् । ‘क्षीष् हिंसायाम्’ (क्र्या० प० अ०) संपदादिः (वा० ३.३.१०८) । क्षियमीरयति । ‘ईर गतौ’ (अ० आ० से०) । ण्यन्तः । 'कर्मण्यण्' (३.२.१) । घस्यते वा । ‘घस्लृ अदने’ (भ्वा० प० अ०) ‘घसेः किच्च' (उ० ४.३४) इतीरन् । ‘गमहनजन-' (६.४.९८) इत्युपधालोपः । ‘खरि च' (८.४.५५, भा० ६१) चर्त्वम् । ‘शासिवसि-' (८.३.६०) इति षत्वम् । ‘क्षीर पानीयदुग्धयोः' इति हैमः ॥