शालयः

सुधाव्याख्या

शेति । शाड्यते । ‘शाडृ आप्लाव्ये’ (भ्वा० आ० से०) । डलयोरैक्यम् । इन् (उ० ४.११८) । शाल्यते वा । ‘शल चलने’ (भ्वा० प० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । ‘शालिस्तु गन्धोलौ कलमादिषु’ इति हैमः ॥