आवसितम्

सुधाव्याख्या

आवसीयते स्म । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । (३.२.१०२) अवसानं प्राप्तम् । सम्पन्नं वा । रक्षार्थमाच्छादितं वा । तत्र आवस्यते स्म । ‘वस आच्छादने’ (अ० अ० से०) । ‘अवसितमृद्धेज्ञातेऽपि (अवमानगते च वाच्यलिङ्गं स्यात्)’ इति विश्वः (मेदिनी) ॥