केदारः

सुधाव्याख्या

के जले शिरसि वा दारोऽस्य । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । केन जलेन दीर्यत इति वा । ‘दॄ विदारणे’ (क्र्या० प० से०) । कर्मणि घञ् (३.३.१९) । ‘केदाराद्यञ्च’ (४.२.४०) इति निर्देशादेत्वम् । ‘केदारो द्रौ शिवे क्षेत्रे भूमिभेदालवालयोः’ इति विश्वः (मेदिनी) ॥