वप्रम्

सुधाव्याख्या

उप्यते । ‘डुवप् बीजसन्ताने’ (भ्वा० उ० अ०) । ‘वृधिवपिभ्यां रन्’ (उ० २.२७) । ‘वर्ध्र' इति मुकुटः वर्धते । ‘वृधु वर्धने' (भ्वा० आ० से०) । रन् (उ० २.२७) । (‘वर्ध्रः सीसवरत्रयोः' इति हैमः) ॥


प्रक्रिया

धातुः -


डुवपँ बीजसन्ताने
वप् - उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
वप् + रन् – उणादि २.२७
वप् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वप्रम्
x000D