सीसकम्

सुधाव्याख्या

सिनोति । ‘षिञ् बन्धने' (स्वा० उ० अ०) । क्विप् (३.२.१७८) । अनित्यत्वान्न तुक् । ईं स्याति । ‘षोऽन्तकर्मणि' (दि० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । सि च तदीसं च । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥