सिन्दूरम्

सुधाव्याख्या

सीति । स्यन्दते । ‘स्यन्दू प्रस्रवणे' (भ्वा० आ० से०) । ‘स्यन्देः सम्प्रसारणं च' (उ० १.६८) इत्यूरन् ।-‘खर्जादित्वादूरः' बाहुलकात्सम्प्रसारणं च – इति मुकुटोऽपाणिनीयः । ‘सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके । सिन्दूरी रोचनारक्तचेलिकाधातकीषु च (इति मेदिनी) ॥


प्रक्रिया

धातुः -


स्यन्दू प्रस्रवणे
स्यन्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्यन्द् – सिन्द् + ऊरन् - उणादि १.६८
सिन्द् + ऊर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सिन्दूरम्
x000D