पिच्चटम्

सुधाव्याख्या

पिच्चयति, पिच्चते वा । ‘पिच्च छेदने' (भ्वा० ) । अच् (३.१.१३४) । पिच्चं टौकते । ‘टौकृ गतौ' (भ्वा० आ० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । पिच्चयति । ‘शकादिभ्योऽटन्’ (उ० ४.८१) वा । ‘पिच्चटो नेत्ररोगे स्यात्क्लीबं सीसकरङ्गयोः’ इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


पिच्चँ छेदने
पिच्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिच्च् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पिच्च - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
टौकृँ गतौ
टौक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिच्च + अम् + टौक्+ ड – वा ३.२.१०१
पिच्च + टौक् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पिच्च + ट् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पिच्चटम्
x000D