लोहाभिसारः

सुधाव्याख्या

लोहेति । ‘लोहोऽस्त्री शस्त्रके लौहे’ (इति मेदिनी) । लोहस्य शस्त्रस्याभितो हरणम् । हृञ् हरणे' (भ्वा० उ० अ०) । भावे घञ् (३.३.१८) ‘लोहाभिहार इत्युक्तो विधिर्नीराजनोत्तरः’ इत्यमरमाला । ‘लोहाभिसार’ इति पाठे तु ‘सृ गतौ' (भ्वा० प० से०) धातुर्बोध्यः ॥ निःशेषेण नितरां वा राजनम् । ‘राजृ दीप्तौ’ (भ्वा० उ० से०) ण्यन्तः । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति भावे युच् । तस्याः सैव वा विधिः । ‘नीराजनो विधिः’ इति पाठे तु 'निःशेषेण राजनमत्र’ इति बहुव्रीहिर्बोध्यः । एकम् ‘महानवम्यां प्रस्थानात्प्राक् शस्त्रवाहनादिपूजनविधेः’ ॥