मेखला

सुधाव्याख्या

मयिति । मां लक्ष्मीमीखति । मा ईखति वा । माशब्दो निषेधे । ‘ईख गतौ' (भ्वा० प० से०) । बाहुलकात्कलच् । यद्वा मा ईं लक्ष्मीं खलति । ‘खल सञ्चलने सञ्चये च’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) अणि वृद्धिः स्यात् ।– मिखेः ‘कम्बलादयश्च' इति कलप्रत्ययो गुणश्च निपात्यते - इति मुकुटश्चिन्त्यः । उज्ज्वलदतादिषूक्तसूत्रादर्शनात् । 'मेखला खड्गबन्धे स्यात्काञ्ची शैलनितम्बयोः’ (इति मेदिनी) ॥