श्री

सुधाव्याख्या

श्रीयते सर्वैः । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । 'क्विब्वचि-' (उ० २.५७) इत्युणादिसूत्रेण क्विप् । श्रीर्वेषरचना शोभा भारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तौ वेषोपकरणे मतौ’ (इति विश्वमेदिन्यौ) ॥