उरस्वत्

सुधाव्याख्या

स्येति । प्रशस्तमतिशयितं वा उरो यस्य । विशालत्वात् । मतुप् (५.२.९४) ‘मादुपधा-’ (८.२.९) इति वः । -‘झयः’ (८.२.१०) इति वत्वम् इति तु मुकुटस्य प्रमादः । सस्य झयत्वाभावात् ॥