ऊर्जस्विन्

सुधाव्याख्या

ऊर्जेति । ‘ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च’ (इति मेदिनी) । अतिशयित ऊर्जोऽस्यास्ति । ‘ज्योत्स्नातमिस्रा-’ (५.२.११४) इति वलज्विनी । ऊर्जशब्दोऽदन्तः सान्तश्च । आद्ये सगपि निपात्यः । मुकुटस्तु ‘ऊर्जा’ शब्दमाबन्तं पठित्वा 'ह्रस्वत्वं च' इत्याह । तन्न । उक्तमेदिनीकोशविरोधात् ॥