पादातिकः

सुधाव्याख्या

पदातिरेव । विनयादित्वात् (५.४.३४) ठक् । पादाभ्यामवति । बाहुलकादिको वा । ‘पादाविकः’ इति क्वचित्पाठः । पादाभ्यामवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । बाहुलकादिकः । पादेनावो रक्षणम् । तत्र नियुक्तः । यदा ‘तत्र नियुक्तः’ (४.४: ६९) इति ठक् ॥