पत्रम्

सुधाव्याख्या

पतन्त्यनेन ‘पत्लृ गतौ' (भ्वा० प० अ०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् । 'पत्त्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः’ (इति मेदिनी) ॥