सज्जनम्

सुधाव्याख्या

सेति । सज्जन्ते (न्त्य) नेन । ‘षस्ज गतौ’ (भ्वा० प० से०) । ल्युट् (३.३.११७) । सत् शोभनं जन्यतेऽनेन वा । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । घञ् (३.३.१९) ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः ॥