चामरम्

सुधाव्याख्या

चेति । चमति, चम्यते, वा । अनेन वा । ‘चमु अदने’ (भ्वा० प० से०) । ‘अर्तिकमिभ्रमिचमि-’ (उ० ३.१३२) इत्यमरः । ‘चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः’ (इति मेदिनी) । ‘चमरश्चामरे दैत्ये चमरी तु मृगान्तरे’ इति हैमः । प्रज्ञाद्यण् (५.४.३८) वा । अजादित्वात् (४.१.४) टाप् । चामरा चामरं बालव्यजनं रोमगुच्छकम्’ इति रभसः । ‘चामरं चामरापि च । दण्डे च बालव्यजने’ (इति मेदिनी) ॥