अहिभयम्

सुधाव्याख्या

मेति । अहिरिव । गृहस्थत्वात्, आवृताकारत्वाच्च स्वस्य पक्ष एवाहिः । अहेर्भयम् ॥ ‘निजोऽथ मैत्रश्च समाश्रितश्च सम्बन्धतः कार्यसमुद्भवश्च । भृत्या गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्ति’ । स्वपक्षात्प्रभवति । पचाद्यच् (३.१.१३४) ॥