अदृष्टम्

सुधाव्याख्या

अद्रिति । वह्निश्च तोयं चादिर्यस्य । भयहेतुत्वाद्भयम् । आदिना ‘हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा । अतिवृष्टिरनावृष्टिर्मूषिकाः शलभादयः’ गृह्यन्ते । अदृष्टहेतुकत्वाददृष्टम् ॥