संप्रधारणा

सुधाव्याख्या

समिति । संप्रधारणम् ‘धृञ् धारणे’ (भ्वा० उ० अ०) । ण्यन्तः । ‘ण्यास-’ (३.३.१०७) इति युच् ॥


प्रक्रिया

धातुः -


धृञ् धारणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सम् + प्र + धृ + णिच् - हेतुमति च 3.1.26
सम्प्र + धृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम्प्र + धार् + इ - अचो ञ्णिति 7.2.115
सम्प्र + धार् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
सम्प्र + धार् + इ + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सम्प्र + धार् + इ + अन - युवोरनाकौ 7.1.1
सम्प्र + धार् + अन - णेरनिटि 6.4.51
सम्प्रधारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
सम्प्रधारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सम्प्रधारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम्प्रधारणा - अकः सवर्णे दीर्घः 6.1.101
सम्प्रधारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सम्प्रधारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम्प्रधारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68