शक्तिः

सुधाव्याख्या

शेति । शक्यते जेतुमनया । ‘स्त्रियां क्तिन्’ (३.३.९४) शक्तिशब्दवाच्याः । भवत्यनेन । ‘श्रीणिभुवः-’ (३.३.२४) इति घञ् । प्रकृष्टो भावः । उक्तं हि- ‘कोशदण्डबलं प्रभुशक्तिः’ । इति ॥ उत्सहतेऽनेन ‘षह मर्षणे’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । उक्तं हि विक्रमबलमुत्साहशक्तिः’ इति । संध्यादीनां सामादीनां च यथावस्थापनम्, न तु ज्ञानबलं मन्त्रशक्तिः’ ।–‘पञ्चाङ्गमन्त्रो मन्त्रशक्तिः’ इत्यन्ये ।