दूत्यम्

सुधाव्याख्या

द्विति । दूतस्य भावः कर्म वा । ‘दूतवणिग्भ्यां च’ इति यः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञि ‘दौत्यम्’ अपि । केचित्तु- ‘दूत्यं’ तद्भागकर्मणि’ -इति पाठं मन्यन्ते । तत्र ‘दूतस्य भागकर्मणी’ (४.४.१२०) इति यत् ॥


प्रक्रिया

धातुः -


दूत + ङस् + य - दूतवणिग्भ्यं चेति वक्तव्यम् (5.1.126) । वार्तिकम् ।
दूत + य - सुपो धातुप्रातिपदिकयोः 2.4.71
दूत् + य - यस्येति च 6.4.148
दूत्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दूत्य + अम् - अतोऽम् 7.1.24
दूत्यम् - अमि पूर्वः 6.1.107