उन्माथः

सुधाव्याख्या

उन्मथनम् । ‘मथे हिंसायाम्' (भ्वा० प० से०) । घञ् (३.३.१८) । मन्थतेर्घञ्-इति मुकुटः । तन्मते ‘उन्मन्थः’ इति पाठः॥