जन्यम्

सुधाव्याख्या

जननम् । ‘जनेर्यक्’ (उ० ४.१११) । जायते वा । ‘भव्यगेय-’ (३.४.६८) इति साधुः । ‘जन्यं हट्टे परीवादे संग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः । वरस्निग्धे’ इति विश्वमेदिन्यौ ॥