व्रतिन्

सुधाव्याख्या

येति । आदिशत्यृत्विजो यागे स्वेष्टसम्पादनाय प्रेरयति । दिश अतिसर्जने’ (तु० प० अ०) । तृच् (३.१.१३३) । आदिष्टी’ इति पाठे आदिष्टमनेन । 'इष्टादिभ्यश्च (५.२.८८) इतीनिः । क्तस्येन्विषयस्य कर्मणि’ (वा० २.३.३६) इति सप्तमी॥ व्रतं भोजनादिनियमोऽस्यास्ति । ‘अत:-' (५.२.११५) इतीनिः । यद्वा व्रतयति । 'व्रताद्रोजनतन्निवृत्त्योः’ इति णिच् । व्रते’ (३.२.२८०) इति णिनिः ॥