जन्यः

सुधाव्याख्या

जेति । जनीं वधूं वहन्ति । ‘संज्ञायां जन्या’ (४.४.८२) इति यदन्तो निपातितः ॥ वरस्य जामातुर्ये स्निग्धास्तत्पक्षा वयस्यादयः । ‘जन्यो वरवधूज्ञातिप्रियभृत्यहितेषु च’इति विश्वः ॥