परिवेत्ता

सुधाव्याख्या

पेति । परिविन्दति ज्येष्ठं परित्यज्य भार्यां लभते । ‘विद्लृ लाभे’ (तु० उ० अ०) । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) ॥


प्रक्रिया

धातुः -


विदॢँ लाभे
विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परि + विद् + तृन् - तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (२.९४) । उणादिसूत्रम् ।
परि + विद् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परिवित् + तृ - खरि च 8.4.55
परिवेत्तृ - पुगन्तलघूपधस्य च 7.3.86
परिवेत्तृ + सु - [ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् ४.१.२]
परिवेत्तृ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिवेत्त् + अन् + स् - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
परिवेत्त् + आन् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
परिवेत्त् + आन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
परिवेत्ता - नलोपः प्रातिपदिकान्तस्य 8.2.7