कायम्

सुधाव्याख्या

स्वेति । स्वल्पाङ्गुल्योः कनिष्ठिकयोरधोभागे । कः प्रजापतिर्देवतास्य । ‘कस्येत्’ (४.२.२५) इत्यण् इदन्तादेशश्च । ‘तस्येदम्’ (४.२.१२०) इत्यण्-इति मुकुटश्चिन्त्यः । ‘कायः कदैवते मूर्तौ संघे लक्षस्वभावयोः । मनुष्यतीर्थे कायं स्यात्’ (इति मेदिनी) ॥