दैवम्

सुधाव्याख्या

अङ्ग्विति । अङ्गुलीनामग्रे । देवानामिदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । देवो देवतास्य ‘सास्य देवता’ (४.१.२४) इत्यण् । ‘देवाद्य (वस्यय) ञञौ’ (वा० ४.१.८५) इत्यञ् वा ॥