यमः

सुधाव्याख्या

शेति । यच्छति । अनेन वा । यमनं वा । पचाद्यच् (३.१.१३४) । ‘यमः समुपनिविषु च’ (३.३.६३) इत्यप् वा । ‘यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ । शरीरसाधना-पेक्षनित्यकर्माणि संयमे’ (इति मेदिनी) ॥शरीरमात्रेण साध्यं यावज्जीवं कार्यं सत्यास्तेयाहिंसादि यत् तस्यैकम् ‘नैत्यिककर्मणः’॥