विघसः

सुधाव्याख्या

विशिष्टैरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । ‘उपसर्गेऽदः’ (३.३.५९) इत्यप् । ‘घञपोश्च’ (२.४.३८) इति घस्लृ ॥ यज्ञस्य शेषो होमावशिष्टाज्यपुरोडाशादिः । देवपित्रतिथिगुर्वादिभुक्तस्य शेषः । तयोः ॥